
कीलक स्तोत्रम्
Keelak Stotram
सप्तशती की कीली खोलने वाला कीलक — मार्कण्डेय पुराण से (मन्त्र-द्रष्टा: शिव)
देवता: देवी दुर्गा (Goddess Durga) | भाग: दुर्गा सप्तशती त्रयम् (कवच → अर्गला → कीलक)
Sanskrit Lyrics (मूल पाठ)
॥ श्री कीलक स्तोत्रम् ॥
ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः, अनुष्टुप् छन्दः, श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ॥
॥ ॐ नमश्चण्डिकायै ॥
मार्कण्डेय उवाच ।
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ १॥
सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम् ।
सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ॥ २॥
सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि ।
एतेन स्तुवतां देवीं स्तोत्रमात्रेण सिद्ध्यति ॥ ३॥
न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते ।
विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम् ॥ ४॥
समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ५॥
स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः ।
समाप्तिर्न च पुण्यस्य तां यथावन्निमन्त्रणाम् ॥ ६॥
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः ।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥ ७॥
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ।
इत्थंरूपेण कीलेन महादेवेन कीलितम् ॥ ८॥
यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम् ।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः ॥ ९॥
न चैवाप्यटतस्तस्य भयं क्वापीह जायते ।
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ॥ १०॥
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ॥ ११॥
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम् ॥ १२॥
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥ १३॥
ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः ।
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ॥ १४॥
॥ इति देव्याः कीलकस्तोत्रं सम्पूर्णम् ॥महत्त्व
कीलक का अर्थ है "कील/खूँटी"। यह स्तोत्र उस "कील" को हटाता है जो दुर्गा सप्तशती की शक्ति को बाँधे रखती है, और त्रयम् (कवच → अर्गला → कीलक) को पूर्ण करता है। चण्डी-पाठ से पूर्व इसका पाठ शुभ माना जाता है।
दुर्गा सप्तशती त्रयम्
Frequently Asked Questions
What is the Keelak Stotram?
The Keelak Stotram is a sacred Hindu devotional hymn (stotram) dedicated to Durga / Chandika. VedKosh provides its complete text in Hindi and English with transliteration for regional readers.
What are the benefits of reciting the Keelak Stotram?
Reciting the Keelak Stotram with devotion is traditionally believed to invoke the grace of Durga / Chandika, calm and focus the mind, and create an auspicious, sattvic atmosphere. It is practised as an act of bhakti (devotion) rather than for any guaranteed material outcome.
When should the Keelak Stotram be recited?
The Keelak Stotram can be recited during daily morning or evening worship of Durga / Chandika, and especially on the deity's sacred days and festivals. A clean, quiet space and a steady, devotional mind are the main requirements.
Updated for 2026