सौंदर्य लहरी
रचयिता: श्री आदि शंकराचार्य
Sanskrit Lyrics (मूल पाठ)
ॐ सौन्दर्यलहरी शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुम् न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि। अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति॥१॥ तनीयांसं पांसुं तव चरणपङ्केरुहभवम् विरिञ्चिस्सन्धत्ते विरचयितुं लोकानविकलम्। वहत्येनं शौरिः कथमपि सहस्रेण शिरसाम् हरः सङ्क्षुद्यैनं भजति भसितोद्धूलनविधिम्॥२॥ अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी जडानां चैतन्यस्तबकमकरन्दश्रुतिझरी। दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति॥३॥