లలితా సహస్రనామ స్తోత్రం
ब्रह्माण्ड पुराण से
Sanskrit Lyrics (मूल पाठ)
ॐ श्री ललिता सहस्रनाम स्तोत्रम् ध्यानम्: सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम्। पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम्॥ ॐ ऐं ह्रीं श्रीं श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी। चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता॥१॥ उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता। रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला॥२॥ मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका। निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला॥३॥ चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा। कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता॥४॥ अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता। मुखचन्द्रकलङ्काभमृगनाभिविशेषका॥५॥