కనకధారా స్తోత్రం
रचयिता: श्री आदि शंकराचार्य
Sanskrit Lyrics (मूल पाठ)
ॐ कनकधारा स्तोत्रम् वन्दे वन्दारु मन्दारमिन्दिरानन्दकन्दलम्। अमन्दानन्दसन्दोहबन्धुरं सिन्धुराननम्॥ अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम्। अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः॥१॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि। माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः॥२॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्गतन्त्रम्। आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः॥३॥