ಬಿಲ್ವಾಷ್ಟಕಂ
पारंपरिक
Sanskrit Lyrics (मूल पाठ)
ॐ बिल्वाष्टकम् त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिआयुधम्। त्रिजन्मपापसंहारमेकबिल्वं शिवार्पणम्॥१॥ त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः। तवपूजां करिष्यामि एकबिल्वं शिवार्पणम्॥२॥ कोटिकन्यामहादानं तिलपर्वततोऽधिकम्। भूमिदानं सहस्राणामेकबिल्वं शिवार्पणम्॥३॥ दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम्। अघोरपापसंहारमेकबिल्वं शिवार्पणम्॥४॥ मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे। अग्रतः शिवरूपाय एकबिल्वं शिवार्पणम्॥५॥ बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ। शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम्॥६॥